________________
एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थितिः प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहये खल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थितिं तान् कामांश्च हारयन्तीति । दृष्टान्तदार्शन्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयाश्चातिस्वल्पतया काकिण्याग्रफलोपमाः, सुराणामायुः कामाचातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्यावफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थं प्रभूतान् देवायुः कामान् हारयन्तीति | सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाह-
मूलम् - जहा य तिण्णि वण्णिआ, मूलं घित्तूण निग्गया। एगोत्थ लहए लाभ, एगो मूलेण आगओ ॥१४॥
व्याख्या - यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताश्च तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहान्नीतं तावतैवोपलक्षित आगतः स्वस्थानं प्राप इति सूत्रार्थः ॥ १४ ॥ तथा| मूलम् — एगो मूलंपि हारिता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥ १५ ॥