SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उतराध्ययन ॥१८७॥ षामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादाने सप्तमाध्यऽपि 'आउं कामा य दिविआ' इत्यत्र यदायुषोप्यादानं तत्तत्रत्यायुष्कादीनामपि मनुष्यजीविताद्यपेक्षयातिभूयस्त्व- यनम् (७) ख्यापनार्थमिति सूत्रार्थः ॥ १२॥ मनुष्यकामानामेव काकिण्याम्रफलोपमतां भावयितुमाह-- गुनाह मूलम्-अणेगवासानउआ, जा सा पण्णवओ ठिई। जाणिं जीअंति दुम्मेहा, ऊणे वाससयाऊए ॥१३॥ ___ व्याख्या अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि, प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं-"चतुरशीतिवर्षलक्षा पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व। पूर्व चतुरशीतिलक्षाहतं नयुताङ्गं, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति" । का नामैवमुच्यते इत्याह-'जा. सेति || प्रज्ञापकः शिष्यान् प्रत्याह- या सा भवतामस्माकञ्च प्रतीता। 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्खासौ प्रज्ञावान् , न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुलक्षणा अधिकृतत्वादिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्य ॥१८७॥ कामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क पुनस्तानि हारयन्तीत्याह-ऊने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरयन्ते, अस्मिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव, श्रीवीरखामितीर्थे च प्रायो न्यूनवर्षशतायुषः १९८४२२२१२-7-2525
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy