SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १८८॥ व्याख्या - एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायः - तथा हि पुर्या काप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनात्रयः ॥ १ ॥ तेषां सहस्रं दीनारान् दत्वा प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ - मित्युवाच स नैगमः ॥ २ ॥ गत्वा पृथक् पुरीर्वित्ते- नेयता व्यवहृत्य च ॥ कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ॥ ३ ॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीवृति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ ४ ॥ तेष्वेकोऽचिन्तयत् प्रैषीत्, परीक्षार्थी पिता हि नः ॥ तोषणीयः स तद्भूरि-धनोपार्जनया मया ॥ ५ ॥ चञ्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् ॥ पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥६॥ तदुपार्जनयोग्यं च वयो मे वर्त्ततेऽधुना ॥ द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ॥७॥ यदुक्तं - " प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥ ८ ॥ " विमृश्येति द्यूतमद्य - वेश्यादि व्यसनोज्झितः ॥ यथोचितं व्ययन् वित्त- मदनाच्छादनादिना ॥ ९ ॥ व्यापारं विविधं कुर्वन्, अनर्वाणं स वाणिजः ॥ उपार्जयद्वहु द्रव्यं, व्यापारो हि सुरद्रुमः ॥ १० ॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः ॥ विनार्जनां भुज्य मानं, किन्तु तत्क्षीयते क्षणात् ॥ ११ ॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ ध्यात्वेति नातिभूयांसं, स १ उत्तमम् । सप्तमाध्य यनम् (७) ॥१८८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy