SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन पश्यामि तामसैः ॥ ४० ॥ ततस्तस्याङ्गुलीमेका- मामृश्यादीदृशद्गुरुः ॥ सा च दीपशिखेवोच्चै-दिदीपे तत्प्रभावतः द्वितीयमध्य ॥४१॥ तदृष्ट्वा व्यमृशद्दत्तो, दोषदर्शी गुणेष्वपि ॥ निशि प्रदीपमप्यस्म-दुरवो रक्षयन्त्यमी ॥ ४२ ॥ तच तं चिन्तितं यनम् (२) ज्ञात्वा-ऽवधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ॥४३॥ चंद्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेप्यपि ॥ दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः!॥४४॥ त्वमेवं सद्गुरून्निन्द-निदानी लप्स्यसे क्षयम् !॥ ज्वालाजिलं ज्वलद्रूप-माक्रामन् शलभो यथा ॥४५॥ समतारसपीयूष-कुण्डं यद्यपि सूरयः ॥ शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ॥४६॥ तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ॥ ४७॥ तच्छ्रुत्वा जातभीदत्तो, निपत्य गुरुपादयोः ॥ स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ॥४८॥y |गुरवोऽपि जगुर्वत्स!, माभैपीर्नास्ति ते भयम् ॥ उपशान्ता ततो देवी, तान्नत्वाऽगानिजास्पदम् ॥४९॥ नवभाग& विहाराद्यां, गुरुणोक्तां निजक्रियाम् ॥ श्रुत्वा दत्तोऽपि निश्शङ्को, गुरुभक्तोऽभवद्भृशम् ॥ ५० ॥ यथा जरित्वेऽप्यस हिष्ट चयों-परीषहं सङ्गमसूरिश्वम् ॥ तथा मुनीन्द्रः सकलैः स सह्यो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ ५१ ॥ इति चयोपरीपहे सङ्गमाचार्यकथा ॥९॥ | यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सद्यते, तथा नैपेधिकी परीषहोऽपि देहादिष्वप्रति बद्धेन सह्य इति तमाह-1॥ ५३ ॥ मूलम्-सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुकुओ निसीएजा, न य वित्तासए परं ॥२०॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy