SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ECCASON जैन, धर्म श्रुत्वा विरक्तधीः ॥ स प्रव्रज्यामुपादत्त, क्रमाञ्चाऽभूद्वहुश्रुतः ॥ २॥ प्रतिपद्याऽन्यदेकाकि-विहारप्रतिमा है व्रती ॥ विजहार धरापीठे-ऽप्रतिबद्धः समीरवत् ॥३॥ अन्येधुर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः ॥ हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ॥ ४ ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! ॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः॥५॥ व्रती तु प्रतिमास्थत्वा न किमप्युत्तरं ददौ॥ ततस्ते कुपिताः क्षार-दानेन तम-| तक्षयन् ॥ ६॥ निशातखड्गबत्तीक्ष्ण-धारैर्दर्भश्च तं मुनिम् ॥ गाढमावेष्ट्य मुक्त्वा च, ते दुष्टाः खाश्रयं ययुः॥७॥ यतेस्तस्याऽऽमिपं बाढं, समन्तादपि तैः कुशैः॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत !॥ ८॥ तथापि कलुषं ध्यान-मकुर्वाणः क्षमानिधिः ॥ स सम्यगधिसेहे तं, तृणस्पर्शपरीपहम् ॥९॥ लग्ना शुकशिखाऽप्यऽङ्गे-ऽङ्गिनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमग्नैः कुशैरपि !॥ १०॥ एवं तृणस्पर्शपरीपहं यथा-ऽधिसोढवान् भद्रमुनिमहाशयः ॥ तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः॥ ११॥ इति तृणस्पर्शपरीपहे भद्रमहर्षि कथा ॥ १७॥ | तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाच परिखेदेन जल्लः सम्भवतीति तत्परीपहमाहमूलम्-किलिण्णगाए मेहावी, पंकेण व रएण वा । प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६॥ १ पाच्छुरिति तं भूप-पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके । AX R
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy