SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ SAॐॐॐॐ व्याख्या-असमानोऽसदृशो गृहस्थैः सहाश्रयमूरिहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्विक्षमनिः कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रहं,ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसंबद्धो गृहस्थैहिभिः, अनिकेतो गृहरहितः परिव्रजेत् सर्वतो विहरेत् , गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९ ॥ आख्यानञ्चात्र, तथाहि| अभवन् भुवनाभोग-भासनाम्भोजपाणयः ॥ सूरयः सङ्गमाह्वाना, जिनाज्ञापालनोद्यताः॥१॥ उत्सर्गञ्चापवादश्च, विदन्तस्ते यथास्थितम् ॥ क्षीणजवाबलास्तस्थुः, पुरे कोल्लकिराभिधे ॥२॥ एकदा तत्र दुर्मिक्षे, सजाते गच्छसंयुतम् ॥ सिंहाचार्य खशिष्यं ते, दूरदेशे व्यहारयन् ॥ ३॥ खयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते ॥ विजहुमासकल्पादि-विधिना विधिवेदिनः ॥४॥ क्षीणजवाबलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ॥५॥ प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठायिका सुरी ॥ तेषु भक्तिं दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ॥ ६॥ वर्षान्तरे च तत्रागात्, प्रहिता सिंहसूरिणा ॥ सङ्गमाचार्यशुद्धयर्थ, तच्छिष्यो दत्तसंज्ञकः ॥७॥ यत्र स्थितैस्तैराचार्यगच्छः प्रस्थापितोऽभवत् ॥ ते तत्रैवालयेऽभूवं-स्तदायाताः पुनः क्रमात् ॥ ८॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः ॥ उत्सर्गकरुचिर्दत्त-साधुरेवं व्यचिन्तयत् ॥ ९॥ तिष्ठन्तोऽत्रैव दृश्यन्ते, यदमी सूरयस्ततः॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ॥ १० ॥ तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy