SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वसन् ॥ गत्वोद्याने पञ्चमेह्नि, चम्पकद्रुतलेऽखपीत् ॥ १९२॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः॥ १९३॥ हस्त्यश्वछत्रभृङ्गार-चामरा मत्रवासिताः॥ पुरीमध्ये भ्रमन | राज्य-योग्यं मत्य तु नाऽऽनुवन् ! ॥ १९४ ॥ ततो बहिर्धेमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रसुप्तमपरावृत्त-च्छायं |चम्पकसन्निधौ ॥ १९५ ॥ ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ॥ १९६ ॥ पुण्डरीकं च तस्योद्धे, व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमुदितै-र्जनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौव-स्कन्धेऽध्यारोपयत्वयम् ॥ प्रावीविशच्च नगरे, नागरीनिर्मितोत्सवे ॥ १९८॥राज्याभिषेकं तस्याऽथ, |चक्रुः सामन्तमत्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ॥ १९९ ॥ "देवतानां प्रभावेणा-वाप्सराज्यः कलानिधिः॥ एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥२००॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवाङिपम् ॥ २०१॥” तन्निशम्याऽखिलं राज-मण्डलं भीतविस्मितम् ॥ तस्या|ऽवश्यमभूदृश्य, सौख्यं धर्मवतो यथा ॥ २०२॥ सोऽथ भूपो व्यधात्प्रीति, प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो-जयनीखामिना समम् ॥ २०३ ॥ [इतश्च-] देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा ॥२०४॥ रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५॥ अतः परं समा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy