SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१४१॥ चतुर्थमध्ययनम् (४) त्वास्त्रियः, उक्तं च-"वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव ॥ पासा य सउणयाणं, नराण बंधत्थमित्थीओ ॥१॥” इति, तेषु 'पयट्टिअत्ति' आपत्वात् प्रवृत्ताः पाशप्रवृत्ता नराः पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थ, वैरेण वैरहेतुना पापकर्मणानुबद्धाः सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामाखभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहैव वधबन्धादिहेतुतया 8 परत्र च नरकादि दुर्गतिदायित्वेन तत्त्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः| तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः॥ स चैकमखनत्कूपं, महान्तं खगृहान्तरे ॥१॥ दत्त्वा क्षात्रं तम|खिन्यां, सलक्ष्मीकगृहेषु सः ॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥२॥ धनं दत्त्वा च कस्यापि, परिणिन्ये स कन्यकाम् ॥ निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि !॥३॥ प्रजातायां तु जायाया-मिति दध्यौ स तस्करः॥ वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ॥४॥ अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया ॥ तजनन्यां तु जीवन्त्यां, तन्निहन्तुं न शक्ष्यते !॥५॥सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य सः॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥६॥ द्रव्येणान्यां पुनः पाणौ, कृत्य प्राग्वजघान सः ॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिममे !॥७॥ अन्यदा स कनीमेका-मुपयेमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधीपमोहितः ॥८॥ ॥१४१॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy