SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ S ARALCALCALENDAR एवं जराभिभूतस्यादृनस्येव भेषजैः खजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि' एतमनन्तरोक्तमर्थ विजानीहि विशेषेणावबुध्यख, तथा एतच वक्ष्यमाणं जानीहि, जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेकवचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्योऽनुपरताः, 'गहितित्ति' ग्रहीष्यन्ति स्वीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविशेषणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥१॥ इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिवन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह मूलम्-जे पावकम्मेहिं धणं मणूसा, समाययंती अमई गहाय ॥ पहाय ते पासपयहिए नरे, वेराणुबद्धा नरयं उविंति ॥ २॥ | व्याख्या-ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्त, समाददते स्वीकुर्वते, अमतिं कुमतिं, “धनैर्दुःकुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुननिस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१॥" इत्यादिकां गृहीत्वा सम्प्रधार्य, प्रहाय प्रकर्षेण हित्वा धनमेव ते धनकरसिकाः, 'पासपयट्टिअत्ति' पाशा इव पाशा बन्धननिबन्धन
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy