SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ पूर्णाष्टवर्षे सआते, तज्जाते चेत्यचिन्तयत् ॥ मया भूयस्तरं काल-मियं मोहेन रक्षिता ॥ ९ ॥ एनां निहत्य तत्पश्चात्, मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां कूपे तत्राक्षिपद्रुतम् ! ॥ १० ॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः ॥ गृहान्निर्गत्य पूञ्चक्रे, निर्बलानां हृदो बलम् ! ॥ ११ ॥ ततः किं पूत्करोषीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ॥ १२ ॥ तच्छ्रुत्वा तस्य सौधान्तः प्रविश्योर्वीशपूरुषाः ॥ तं चौरं जगृहुर्जीव - ग्राहं ग्राहा इव द्विपम् ॥ १३ ॥ कूपं च ददृशुर्द्रव्या - पूर्णम स्थिभिराकुलम् ॥ ततोऽवबुध्य तं दस्युं, बद्धा निन्युर्नृपान्तिकम् ॥ १४ ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्बया - मारयद्भुतम् ॥ १५ ॥ इत्यर्थलोभेन कुकर्म कुर्वन्निहापि पीडामधियाति जन्तुः ॥ अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ॥ १६ ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥ २ ॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थे द्रढयितुमाह मूलम् — तेणे जहा संधिमुहे गहीए, स कम्मुणा किच्च पावकारी ॥ एवं पया पेच इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ॥ ३ ॥ व्याख्या - स्तेनचौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः स्वकर्मणा स्वीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy