SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १४२ ॥ नगरे काप्यभूत्कोपि, चौरचौर्यविशारदः ॥ स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ॥ १ ॥ नन्द्यावर्तघटा|म्भोधि - कपिशीर्षादिसंस्थितम् ॥ क्षात्रं दत्वान्वहं चक्रे, तास्कर्य स हि तस्करः ॥ २ ॥ सर्वतो दत्तफलके - ऽन्यदापवरके क्वचित् ॥ स क्षात्रमखनच्चारु, कपिशीर्षकसंस्थितम् ॥ ३ ॥ तत्र क्षात्रं खनन्तं तं ज्ञात्वा जाग्रगृहाधिपः ॥ उत्थाय तं प्रदेशं द्राक् वभाज निभृतक्रमः ॥ ४ ॥ गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्रविष्टं तं द्रुतं जग्राह पादयोः ॥ ५ ॥ ततो गृहीतोहमिति, स प्रोचे बाह्यदस्यवे ॥ सोऽपि तं हस्तयोर्धृत्वा बहिः ऋष्टुं समाकृषत् ॥ ६ ॥ सोऽन्तःस्थेन गृहेशेन, वहिःस्थेन च दस्युना ॥ आकृष्यमाणो नैवाभू - त्वाङ्गसङ्गोपने क्षमः ॥ ७ ॥ अतीव सङ्कटे क्षात्रे, तदा तत्र स्वनिर्मिते ॥ सोऽकृत्यत भृशं तीक्ष्णैः कपिशीर्षकदन्तकैः ॥ ८ ॥ ततः स चौरः सपराक्रमाभ्यां ताभ्यामुभाभ्यामपि कृष्यमाणः ॥ क्षात्रेण तेन खकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ॥ ९ ॥ इति स्वकृतकर्मभोगे चोरकथा ॥ एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, स्वकृतकर्मनिर्मितविविधवाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह- यतः कृतानां कर्मणां न मोक्षोऽस्ति, यदुक्तं - "यदिह क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ १ ॥ ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अध्यनर्थहेतुत्वात्तथा च वृद्धाः चतुर्थमध्ययनम् (४) ॥ १४२ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy