SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 6 ।२०९॥ उत्तराध्ययन चचाल प्रति पाञ्चालं, चलयनचलां बलैः॥३७॥ पूरयन्तो दिशः सर्वा, बृंहितैगर्जितैरिव ॥धारासारैरिव रसां, सिञ्चन्तो| नवमाध्यमदवारिभिः ॥३८॥ वर्णादिभूषणैर्विद्युद्दण्डैरिव विराजिताः ॥ लक्षद्विकं द्विपा रेजु-स्तत्सैन्येऽन्दा इवाम्बरे ॥३९॥ यनम् (९) [ युग्मम् ] पञ्चायुतानि तुरगा-स्त्वराधरितवायवः ॥ तत्सेनां भूषणानीवा-म्बुजनेत्रां व्यभूषयन् ॥४०॥ आयुक्त द्विमुखच रित्रम् वाजिनो नाना-विधैः प्रहरणभृताः ॥ शताङ्गा विंशतिशती-मितास्तत्र विरेजिरे ॥४१॥ तद्बलं प्रबलं चक्रु-विक्रमक्रमशालिनाम् ॥ कृतवैरिविपत्तीनां, पत्तीनां सप्त कोटयः ॥४२॥ सज्जया सज्जयार्थिन्या, संयुतः सेनयाऽनया ॥ पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥४३॥ तचायान्तं चरैत्विा, द्विमुखोपि महाबलः ॥ जयेच्छु राजयेऽगच्छत् , सीम्नि देशस्य संमुखः ॥४४॥ दुर्भेदं गरुडव्यूह, चण्डप्रद्योतपार्थिवः ॥ खसैन्ये विदधे वार्धिदिव्यूहं द्विमुखराटू पुनः ॥ ४५ ॥ उत्साहितेषु वीरेषु, रणनिखाननिखनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः । ॥४६॥ तदा च शस्त्रसङ्गोत्थ-स्फुलिङ्गकणवर्षणैः ॥ वीराः केपि दिवाप्युल्का-पातोत्पातमदर्शयन् ॥ ४७ ॥ लघु-४ हस्ता भटाः केपि, मुमुचुर्विशिखांस्तदा ॥ तदादानधनुासा-कर्पणादिष्वलक्षिताः॥४८॥ निस्त्रिंशैर्निशितैः केपि, कुम्भिकुम्भानभेदयन् ॥ तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः॥४९॥ केचिद्भटोत्तमा भिन्न-देहा अप्यभिमानिभिः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः ॥५०॥ दण्डैरखण्डयन् केपि, विपक्षान् केपि मुद्गरैः ॥ सशल्यांश्चक्रिरे शल्यैः, केचित्केचित्तु शक्तिभिः ॥५१॥ एवं रणे जायमाने, कालरात्रिनिभे विशाम् ॥ मौलेस्तस्य
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy