SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ द्विमुखचरित्रम् ५२-६५ प्रभावेणा-जय्योभूद्द्विमुखो नृपः ॥५२॥ तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् ॥ विदुद्राव द्रुतं भानु-धाम्ना धाम विधोरिव ॥५३॥ तदा चोजयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥५४॥ |तं गृहीत्वाविशद्भूमा-नुत्पताकं निजं पुरम् ॥ सानन्दं बन्दिभिरिव, पौरैः कृतजयारवः ॥५५॥न्यधापयच्च निविडं, निगडं तत्पदानयोः ॥ महानपि जनो लोभात् , कां कां नापदमश्नुत ? ॥ ५६ ॥ प्राप्तोपि दुर्दशां दैवा-मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः स्नानादनादिना ॥ ५७॥ राज्ञोभ्यर्णे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो-ऽर्धासने तञ्च गौरवात् ॥ ५८॥ ___ अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् ॥ प्रद्योतो जातगाढानु-रागोभूद्वाढमाकुलः ॥ ५९॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् ॥ नागान्निद्रा निशीर्ष्यालुः, कामिनीवापरा रतेः ॥६०॥ स्मरोन्मादसमुद्भूत-चिन्तादाघज्वरार्दितः ॥ पुष्पतल्पेपि सुप्तोसौ, स्वास्थ्यं नाप मनागपि ॥ ६१ ॥ वर्षायितां च तां रात्रिं, कथञ्चिदतिवाह्य सः ॥ प्रातः सभां ययौ तञ्चो-द्वीनं वीक्ष्याब्रवीन्नपः ॥ ६२॥ अद्य ते विद्यते राजन्!, किं पीडा कापि रोगजा ? ॥ हेमन्तेजमिव म्लान-मास्यं ते कथमन्यथा! ॥ ६३ ॥ पृष्टोप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ तदातिव्याकुलो भूपः, सनिर्बन्धमदोवदत् ॥ ६४ ॥राजन् ! प्रतिवचो देहि, निवेदय निजां व्यथाम् ॥ अब्रवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ॥६५॥ ततः स दीर्घ निःश्वस्य, जगौ लजां विहाय च ॥ न व्याधिर्बाधते
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy