SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ रित्रम् ROCEROSARORSCORRECTOR महाविभूत्या च, यक्षस्याप्युपयाचितम् ॥ २२ ॥ दत्ता मदनयक्षेण, मअरीखानसूचिता ॥ इति तामवदत्तातो, द्विमुखचनाम्ना मदनमअरी ॥ २३॥ क्रमाच वर्द्धमाना सा, कल्पवल्लीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् २२-३६ ॥ २४ ॥ आदर्शादिपु संक्रान्तात् , तदीयप्रतिबिम्बतः॥ अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः क्वचित् ॥ २५॥ इतश्चोजयनीभर्तु-श्चण्डप्रद्योतभूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ॥ २६ ॥ स च प्रत्यागतोवन्ती-मिति प्रद्योतमब्रवीत् ॥ स्वामिन् ! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥ २७॥ राज्ञाथ कथमित्युक्ते, यादीत्तस्य भूपतेः॥ मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥२८॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ॥ वाग्मिनं प्राहिणोतं, पार्थे द्विमुखभूभुजः॥२९॥ ततः स गत्वा नत्वा च, पाञ्चालाधीशमब्रवीत् ।। |चण्डप्रतापः श्रीचण्ड-प्रद्योतस्तेऽवदत्यदः ॥ ३०॥ मुखद्वयकरं मौलि-रत्नं मे प्रेषयेद्भुतम् ॥ नोचेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः १ ॥ ३१ ॥ ततोवादीन्नृपो दूत !, यदि प्रद्योतभूधवः ॥ दत्ते मे याचितं किञ्चित् , तदाहमपि । तं ददे ॥३२॥ किंवः प्रार्थमिति प्रोक्ते, दूतेन माधवोऽभ्यधात् ॥ रदांशुनिकरोन्मिश्र-स्मितविच्छुरिताधरः॥३३॥ * गन्धद्विपोऽनलगिरि-रग्निभीरू रथोत्तमः ॥ राज्ञी शिवाभिधा लोह-जंघः संदेशहारकः ॥ ३४ ॥ खराज्यसाराण्ये तानि, दीयन्ते तेन चेन्मम ॥ तदा मयापि मुकुटो, राज्यसारः प्रदीयते !॥ ३५ ॥गत्वा दूतोपि तत्सर्व, प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योचैः, कोपो वायोरिवानलः ॥३६ ॥ ततो भेरी प्रयाणार्थ, प्रवाद्योजयनीपतिः ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy