SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्वेति जठरं तस्य, चाणक्यो दारयत्खयम् ॥ खार्थसिद्धयै परद्रोह-करान् धिर धिग् नराधमान् ! ॥ ७९ ॥ ततो तृतीयमध्य हृत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ॥८॥ मौर्ययुक्तोऽथ चाणक्यो, यनम् (३) ॥९६॥ ग्राममेकं दिनात्यये ॥ अगात्तत्र च भिक्षायै, भ्राम्यन् रोरगृहं ययौ ॥ ८१॥ तदा च तस्य गेहस्य, खामिन्या वृद्धयैकया ॥ बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ॥८२॥ तखामेकः शिशु ढं, क्षुधितः प्रक्षिपन् करम् ॥ दग्धा गुली रुरोदोच्चै-स्तं च वृद्धत्यभाषत ॥ ८३॥ वेत्सि चाणक्यवन्नव, किञ्चित्त्वमपि मूढरे!॥ तन्निशम्याऽथ चाणक्यदस्तां पप्रच्छेति सादरम् ॥ ८४ ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमि- |दमभ्यधात् ॥८५॥ यथा हि पूर्व चाणक्यो, बाह्य देशमसाधयन् ॥ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम ॥ ८६ ॥ बालकोऽपि तथैवाय-मलिहन् परितः शनैः ॥ मध्य एव क्षिपन् पाणिं, दाहमत्युग्रमासदत् ॥ ८७॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निर्बुद्धिालादपि विशिष्यते ॥ ८८॥ तच्छृत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् ॥ चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ॥ ८९ ॥ तत्र राज्ञा पर्वतकाभिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कांक्षन् साहायकं ततः॥९०॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्स-onean 3 मीहसे ॥ नन्दमुन्मूल्य तद्राज्यं, विभज्यादद्वहे तदा ॥९१॥ मम बुद्धिबलं सैन्य-बलं च भवतोऽतुलं ॥ कार्येस्मि-18 निर्मिते विश्व-श्लाघ्यतां लभतां सखे! ॥९२॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः ॥ सचन्द्रगुप्तः प्रारेभे, GALLERY
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy