SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चाणक्यश्चारुधीनिधिः ॥ प्रावीविशञ्चन्द्रगुप्तं, सवेशस्थे सरोवरे ॥ ६४ ॥ स्वयं तु निर्णेजकवत् प्रारेभे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व - वारस्तमिति पृष्टवान् ॥ ६५ ॥ चन्द्रगुप्तो ब्रजन्नत्र, दृष्टो रे ! रजक ! त्वया ॥ सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ ६६ ॥ ततः सादी तमात्रष्टुं, प्रविविक्षुः सरोन्तरे ॥ उत्तीर्य तुरगाच्छन- सन्नाहादि विहाय च ॥ ६७ ॥ कौपीनमात्रभृद्याव - जलोपान्तमुपाययौ ॥ तावत्तस्यैव खगेन, चाणक्यस्तच्छिरोऽच्छिनत् ॥ ६८ ॥ [ युग्मम् ] चन्द्रगुप्तमथाहूय, तस्मिन्नारोप्य वाजिनि ॥ चाणक्यः पुरतोऽचाली-त्प्रतिभाविभवोर्जितः ॥ ६९ ॥ कुमारं चेति पप्रच्छ, हे वत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ॥ ७० ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा ॥ एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ! ॥ ७१ ॥ तदाकर्ण्यातिसन्तुष्ट - चाणक्यों ध्यातवानिति ॥ वशंवदः सदाप्येष, भावी मम सदश्ववत् ॥ ७२ ॥ ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽत्रवीदार्य ! क्षुधा मां बाधतेऽधिकम् ॥ ७३ ॥ ततश्चन्द्रं बहिर्मुक्त्वा, भक्तार्थ चणकात्मजः ॥ प्रति ग्रामं व्रजन्नेकं, भट्टं दृष्ट्वेति पृष्टवान् ॥ ७४ ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ! ॥ मयाप्यत्राधुना लेमे, दधिकूरकरम्बकः ॥ ७५ ॥ चाणक्योऽचिन्तयद्भक्त - कृते ग्रामे ब्रजाम्यहम् ॥ एकाकी चन्द्रगुप्तस्तु, बहिस्तिछति साम्प्रतम् ॥ ७६ ॥ तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः ॥ हनिष्यते चेत्तद्भावि, राज्यं मे स्वप्न एव हि ! ॥ ७७ ॥ तस्मादस्यैव भट्टस्यो - दरात्कृष्ट्वा करम्बकम् ॥ ददे तस्मै दुर्दशा हि, तरणीया यथातथा! ॥ ७८ ॥ ध्या
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy