________________
करकण्डुच
रित्रम् १३९-१४६
हम ॥ सोवादीहेव ! वृषभः, स एवायं जरातुरः ॥ ३९॥ तन्निशम्य नृपोध्यासी-दध्यासीनः शुभाशयम् ॥ अहो! अनित्यता सर्व-भावानां वचनातिगा ॥४०॥ बलिनोपि बलीपर्दा, नेशुदप्ता अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या-टङ्कारेणेव पक्षिणः॥४१॥ चलदोष्ठो गलदृष्टि-नेष्टौजा विश्रसावशात् ॥ सोऽधुना पडुकैः क्लसां, सहते परिघटनाम् ! ॥४२॥यद्रपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् ॥ सोप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीषवत् !॥४३॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् ॥ वीक्ष्यतेध्यक्षमेवैत-त्पताकाञ्चलचञ्चलम् !॥ ४४ ॥सत्यप्येवं जनो मोहा-न जानाति यथास्थितम् ॥ तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ॥४५॥ध्यात्वेति कृत्वा स्वयमेव लोचं, विभ्रन्मुनेर्वेषममर्त्यदत्तम् ॥ प्रत्येकवुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः॥ ४६॥ [इति करकण्डुनृपकथा ॥१॥] | अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञो द्विमुखसंज्ञस्य, कथां वक्ष्यामि तद्यथा ॥ १॥ पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि ॥ यवाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥२॥ तस्यासीद्गुणमालाढ्या, गुणमालाहया प्रिया ॥ तया समं नृपो भोगान् , भुजानः कालमत्यगात्॥३॥अन्यदा च गुणास्थान-मास्थानस्थःस पार्थिवः॥ देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ॥४॥राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? ॥ दूतोवादीत्तव विभो !, नास्ति चित्रसभा शुभा ॥५॥ ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र-सभा मे क्रियतामिति ॥६॥प्रमाणमादेश इति, प्रोच्य तेपि शुभे क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया
९
द्विमुखचरित्रम् १-७
RRCRAR