SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२०७॥ नवमाध्य. यनम् (९) करकण्डुच रित्रम् १२५-१३८ लोका, यथा नैव स्मरन्ति माम् ॥ २५॥ नियोज्येमां राज्यभार-धुरां त्वयि धुरन्धरे ॥धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ॥ २६ ॥ इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधौ॥करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः॥२७॥ | अथ प्रतापदावाग्नि-ध्वस्तवैरियशोद्रुमः॥ करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ॥ २८ ॥ स चोर्वीशः खभावेन, भृशं वल्लभगोकुलः ॥ खीचके तानि भूयांसि, यादांसी पयोनिधिः ॥ २९॥ स चान्यदा गतः क्वापि, गोकुले जलदात्यये ॥ सुरभीः सौरभेयांश्च, तर्णकांश्च विलोकयन् ॥ ३०॥ गौरं गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलाप्लुतात् ॥ एकं तर्णकमद्राक्षी-मुग्धं स्निग्धतनुच्छविम् ॥३१॥ जातप्रेमा ततस्तस्मिन् , भूमान् गोदुहमूचिवान् ॥ एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ॥ ३२॥ किञ्च वृद्धिं गतस्यास्य, मचित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ॥३३॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ॥ तथैव विदधे को वा, राज्ञामाज्ञां विलुम्पति? ॥ ३४ ॥ सोथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा ॥ पलोपचयदुर्लक्ष्य-कीकसः प्राज्यविक्रमः ॥ ३५॥ शोभमानोंसकृटेन, कटेनेवावनीधरः॥ तीक्ष्णाग्रवर्तलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ।। ३६ ॥[युग्मम् ] तथा| &भूतं च तं मापो, वृपभैरपरैः समम् ॥ क्रीडयायोधयत्तं तु, नाजैपीत्कोपि शाङ्करः॥ ३७॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्यमानं पडकायै-र्ददशैकं जरद्वम् ॥ ३८॥ महोक्षः स महावीर्यः, केत्यपृच्छच्च गोदु१ हिमाद्रेः । ॥२०७॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy