________________
यामे तूत्थाप्य, सत्यकं दारुकोऽखपीत् ॥ तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ॥८॥ बलं प्रबोध्य सुष्वाप, सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक्, बलमप्यबलं व्यधात्॥९॥ अशेत तुर्यप्रहरे,हरिमुत्थाप्य सात्वतः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥१०॥ सुप्तानेतानहं प्स्यातु- मागतोऽस्मि बुभुक्षितः ॥ विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ॥ ११॥ ततः पिशाचगोपीशौ, नियुद्धं चक्रतुर्भशम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥१२॥ यथा यथोचैर्युयुधे, स पिशाचस्तथा तथा ॥ अहो! तरखी मल्लोय-मित्यतुष्यदृशं हरिः॥ १३॥ कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघुर्बादं बभूव सः ॥१४॥ | ततः प्रक्षिप्य तं नाभी, ररक्ष मधुसूदनः ॥ तांस्त्रीन्प्रातरपश्यच, धृष्टकूपरजानुकान् ! ॥१५॥ यूयमेवं केन घृष्टाः?, इत्यपृच्छच तान्हरिः ॥ ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा॥१६॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् ॥ पिशाचरूपः कोपोय-मायातो योऽभवन्निशि ॥ १७ ॥ अनेन युद्धयमानैर्य-धुष्माभिचकुपे भृशम् ॥ तदसौ ववृधे यस्मा-कोपः कोपेन वर्धते ॥ १८॥ वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् ॥ वृद्धिं गता हि दोषाय, द्विट| कोपामिविषद्रुमाः॥ १९॥ मया तु कुर्वता युद्धं, शान्तत्वेनोत्कटोऽप्यऽयम् ॥ प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव है। जीयते ॥ २०॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते ॥ त्रयोऽपि विस्मिता बहीं, प्रशंसां चक्रिरे हरेः ॥ २१॥ कोपो यथा क्लृप्तपिशाचमूर्ति-मुरारिणा शान्ततया विजिग्ये ॥ जयन्त्यऽलाभं मुनयोऽपि तद्वत् , पूर्वोक्त