SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥७१॥ अलब्धे वा नानुतप्यत, संयतो मुनिः । यथाऽहो ! ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चातापं न कुर्वीतेति | है सूत्रार्थः ॥३०॥ किं विमृश्य नानुतप्यतेत्याहमूलम्-अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ। जो एवं पडिसंचिक्खे, अलाभो तं न तजइ॥३॥ व्याख्या-अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, अपि सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिःश्वः आगामिनि दिने स्याद्भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति, 'अलाभों' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च ॥ अन्यदाश्वैरपहृताः, प्रापरेका महाटवीम् ॥१॥प्रतियामं वारकेण, जाग्रद्भिः स्थेयमात्मभिः॥ इति निश्चित्य ते तत्र, वटस्याधोऽवसन्निशि ॥२॥सुप्तेष्वऽन्येष्वाऽऽद्ययामे, यामिकं तत्र दारुकम् ॥ पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ॥३॥ग्रसिष्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः॥ त्वं रक्षकोऽसि यद्यषां, तन्नियुद्धं प्रदेहि मे ॥ ४ ॥ओमित्युक्त्वा दारुकोऽपि, तेन साकमयुझ्यत ॥ अशक्नुवन् पिशाचं तं, |जेतुमुच्चैश्चुकोप च ॥ ५ ॥ चुकोप दारुकोऽत्यर्थं, पिशाचाय यथा यथा॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥६॥ वर्द्धमानेन तेनाभि-भूयमानो मुहुर्मुहुः ॥ दारुकः प्रथमं याम, कृच्छ्रेण महताऽत्यगात् ॥७॥ द्वितीय ॥७१॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy