SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रार्थविचिन्तनेन ॥ २२ ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ ३१ ॥ निदर्शनश्चात्र, तथाहि द्वितीयमध्य द मगधेषु पुरा ग्रामे, पूरवारकसंज्ञके ॥ विप्रो भूपनियुक्तोऽभू-कृषिः पाराशराभिधः ॥ १॥ ग्रामीणैः सोऽन्यदायनम् (२) ॥७२॥ लोकै-राजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्टया सीरशतानि षट् ॥२॥ क्षुधितांस्तृषितान् श्रांतान् , तान् वृषान्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ ३॥ किन्तु तैर्व्याकुलैर्गोभिः, कर्षकैश्च पृथक पृथक् ॥ एकैकवारं खक्षेत्रे-ऽवाहयत् हलषदशतीम् ॥ ४॥ ततोऽन्तरायकरणात् , दृढं कर्मान्तरायिकम् ॥ उपायं मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः ॥ ५ ॥ द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः ॥ सोऽभवडण्ढणादेवी-1 कुक्षिजो ढण्ढणाभिधः॥६॥[युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसी पपुत्रिकाः ॥ पर्यणैषीत्वसौन्दर्या-धरितामरसुन्दरीः ॥ ७॥ श्रीनेमिखामिनः पार्थे, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्राव्रजत्कृष्ण-कृतदीक्षामहोत्सवः ॥८॥अधीयानः श्रुतं साध, खामिना विजहार सः॥ तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ॥९॥ ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः॥ द्वारकायां पुरि वर्ग-लक्ष्मीजित्वरसंपदि ॥ १०॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा! ॥११॥ [युग्मम् ] समं तेन गतोऽन्योऽपि, मुनिः किञ्चन नाऽऽनशे ॥ ततो हेतुमलब्धेः श्री-नेमिं पप्रच्छ ढण्ढणः॥१२॥ तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्यधात् ॥ तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ॥ १३ ॥ लाभ मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy