SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥१४॥ भिक्षा चालभमानः स, नोद्विवेज न वा जनम् ॥ निनिन्द किन्तु खं कर्म-दोषमेव व्यचिन्तयत् ॥ १५॥ अदीनमानसो नित्य-मित्यलाभपरीपहम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः॥ १६ ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः ॥ एषु खामिविनयेषु, को नु दुष्करकारकः ? ॥ १७॥ उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः। सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः !॥१८॥ हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः ॥ परीषहस्सालाभस्य, सहनादिकमभ्यधात् ॥ १९ ॥ ततो भक्तिभरोदञ्च-द्रोमाञ्चः केशवोऽवदत् ॥ महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते ? विभो ! ॥ २०॥ जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगयाँ प्रविशंस्तस्यां, पश्यसि त्वं मुकुन्द ! तम् ॥ २१॥ श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ ॥ तदीयदर्शनीत्सुक्य-सिन्धुपूरप्रणुन्नहृत् ॥ २२॥ पुर्या च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्ति-मन्तं धर्ममिवाऽच्युतः ॥ २३॥ ततोऽतिमुदितो विष्णु-भक्तिभावोल्लसन्मनाः॥ उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ॥ २४ ॥ इलातलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निराबाधविहारं च, पप्रच्छ रचिताअलिः ॥ २५॥ विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ॥ २६ ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्मै, श्रद्धाशुद्धाशयो ददौ ॥ २७ ॥ ढण्ढणोऽथ जिनाभ्यणे, गत्वा दर्शितमोदकः ॥ इत्यप्राक्षीकिमु क्षीणं, तन्मे कर्मान्तरा उ. १३
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy