SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ कुण्डत्वमाश्रिताम् ॥ तौ वीक्ष्य द्वारकां वाष्पा-प्लुताक्षाविति दध्यतुः ॥ ८४ ॥[युग्मम् ] पुरन्दरधनुष्कल्प-मनित्यत्वमहो! श्रियाम् ॥ जलबुद्बुददेश्यं च, जीवितव्यमहो ! विशाम् ॥ ८५ ॥ स्वप्नसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी! ॥ अहो! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः॥ ८६ ॥ यदुक्तं-"धारिजइ इंतो जल-निही वि कलोल भिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो॥ ८७॥” अथोवाच हरिः सर्व-सम्पत्खजनवर्जितौ॥ आवां भ्रातः! क्व यास्यावो?, भीतौ यूथच्युतैणवत् ॥ ८८॥ बलोऽवादीत्पाण्डुपुत्राः, सन्ति नः स्निग्धवान्धवाः॥ तत्पुरी पाण्डुमथुरा, यास्यावोऽवाच्यवाड़िगाम् ॥ ८९॥ प्रोचे कृष्णो मया कृष्णां, प्रत्यादाय समेयुषा ॥ गङ्गोत्तरणवेलायां, बेडान्तर्धानरोषतः ॥ ९० ॥ पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः ॥ दुर्दशायां गमिष्यावः, तत्पार्थे साम्प्रतं कथम् ? ॥ ९१ ॥ [ युग्मम् ] रामोऽवग् न स्मरन्त्यार्या, दुःखप्नमिव विप्रियम् ॥ दुष्प्रापम-13 अवनैवो-पकारं विस्मरन्ति च ॥ ९२ ॥ तन्मेदं विमृश भ्रातः!, कतरो भक्तिमेव ते ॥ श्रुत्वेति सबलः पूर्वी, प्रत्यचालीन्नरायणः ॥९३॥ ___ इतश्च द्वारकापुर्या, ज्वलन्त्यां कुब्जवारकः ॥रामसूनुः खगेहाग्र- मारुह्योचैरदोऽवदत् ॥ ९४ ॥ अहं चरमदेहः |श्री-नेमिना कथितः पुरा!॥ इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि स्वीकृतव्रतः॥९५॥ सा चेत्सत्या विभोर्वाणी, १ यास्यावोऽपाच्यवाड़िगाम् । इति 'ग' संज्ञकपुस्तके ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy