SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ त्रयोदशमः मूलम्-तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु । ध्ययनम् सवस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माइं पुरेकडाइं ॥ १९ ॥ हैगा १९-२० व्याख्या-तस्यां च जातौ श्वपचसम्बन्धिन्यां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ |'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निवन्धनमिति शेषः, ततो जातप्रत्ययैः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ॥ १९ ॥ एतदेव दर्शयति मूलम् सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ । _ चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २० ॥ व्याख्या-'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं दाणिसिंति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्साह-त्यक्त्वा भोगानशाश्वतान् , आदीयते गृह्यते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धेतोरभिनिष्काम आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ॥ २०॥ इत्थमकरणे को दोषः ? इत्याह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy