SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४ अयं भावः- न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः M॥ १२ ॥ यतः मूलम्-एगया अचेलओ होइ, सचेलेआवि एगया॥एअं धम्महिअंणच्चा, णाणी णो परिदेवए ॥१३॥ | व्याख्या-एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मो-13 पकारकं ज्ञात्वाऽवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमन्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत् , अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानी शरणमिति न दैन्यमा-2 लम्बतेति सूत्रार्थः ॥ १३ ॥ उदाहरणम् सम्प्रदायश्चायमत्र, तथाहिT अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवद्रुद्र-सोमाह्वा परमाईती ॥ १॥ तयोरभूतां द्वौ पुत्री, गुणरत्नमहोदधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ॥२॥ तत्राऽधीत्य पितुः पार्थे, तद्विद्यामार्यर-| क्षितः ॥ जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ॥३॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ ४ ॥ तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ॥ अभिगम्य गजस्कन्धे-ऽध्यारोप्यावीविशत्पुरे | ॥ ५॥ कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ॥ ६॥ सम्पूज्यमानः
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy