SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्य यनम् (२) उत्तराध्ययन सर्वेण, पूर्जनेन नृपेण च ॥ जगाम खगृहं बाह्य-शालामध्यवसच सः॥ ७ ॥ पुरलोकेन राज्ञा चा-ऽय॑मानं तं धना- दिना ॥ दृष्ट्वा तद्वन्धवो हृष्ट-मानसा वह्वमानयन् ॥ ८॥ आवद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा ॥ रूप्यस्वर्णम- ॥३४॥ |णिधेन-प्रभृतिप्राभृतैर्भूतम् ॥९॥ अथार्यरक्षितो दध्यौ, प्रमादाजननी निजाम् ॥ यन्नाद्राक्षमहं पूर्व. तद्विनीतस्य नो. साचितम ॥ १०॥ मद्वियोगादशां माता, कामप्यासा भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥ ११॥ ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूषितः ॥ अन्तर्गेहमगात्सीयां, सवित्री प्रणनाम च ॥ १२ ॥ स्वागतं तव हे पुत्रे-त्युदित्वा मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात् , प्रेमान्तबहु बिभ्रती ॥ १३॥ स्नेहोद्रेकं तदा मातुहरपश्यन्नित्युवाच सः॥ चिरादेतं भक्तिमन्तं, माता भाषसे न किम् ? ॥ १४ ॥ अथेत्थं रुद्रसोमाख्य-त्किमेभिः खान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्रै-रधीतैनरकप्रदैः ॥ १५ ॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे ॥ पतिप्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ॥१६॥ मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ स्वर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ॥ १७॥ अथार्यरक्षितो ध्या-वपि लोकप्रमोदिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ १८ ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क्व पठ्यते ? ॥ साऽप्यवादीदृष्टिवादो-ऽधीयते साधुसन्निधौ ॥ १९॥ दर्शनानां विचारो यो, दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ॥२०॥ इत्यार्यरक्षितो ध्यायन् , जगाद जननीमिति ॥ अध्येष्येऽहं दृष्टिवाद, त्वदादेशवशंवदः ॥ २१॥ [ युग्मम् ] सङ्गं ॥ ३४॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy