SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ tor SARASHRSSSS निमग्नो भोगामिपदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस्य स गाथा. ६ हितनिश्रेयसबुद्धिविपर्यस्तः, बालश्चाज्ञः, मंदिएत्ति' सूत्रत्वान्मन्दो धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेताः || वध्यते श्लिप्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः-यथाऽसौ तद्गन्धेनाकृष्यमाणा खेले मजति, मन्ना च रेवादिना वध्यते, एवं जीवोपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५॥ ननु । यद्येवं कर्मबन्धहेतवो भोगास्तर्हि किं न सर्वेऽपि तांस्त्यजन्तीत्याह मूलम् –दुपरिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह संति सुवया साहू, जे तरंति अतरं वणिआ वा ॥ ६॥ व्याख्या-दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षाः कामा शब्दाद्याः नो नैव 'सुजहत्ति' आपत्वात्सुहानाः सुत्यजाः, कैः ? अधीरपुरुषैः! असात्विकनरैः, यच्चेह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्त-13 दुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह 'अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुत्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिक्रामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज| इव, वाशब्दस्य इवार्थत्वात् । यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना भवमिति ।।
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy