SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १९७ ॥ ३ ६ १२ पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थ, केषां ? सर्वजीवानां, 'तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थ भाषते वक्ति वर्त्तमान निर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीय कर्मा । इह च 'हिअनिस्सेअसाए सङ्घजीवाणमित्यनेनैव चरितार्थत्वेऽपि 'तेसिं विमोक्खणट्टाएत्ति' यत् पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३ ॥ यच्चासौ भाषते तदाह मूलम् — सवं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सर्व्वसु कामजाएसु, पासमाणो न लिप्पई ताई ॥ ४ ॥ व्याख्या – सर्वमशेषं ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं कलहहेतुत्वात्कलहः क्रोधस्तं, च शब्दान्मानादींश्च, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोपताख्यापनार्थ, 'विप्पजहेत्ति' विप्रजह्यात्त्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति' पश्यन् अत्यन्तकटुकं तद्दोषमिति शेषः, न लिप्यते न सज्यते 'ताइत्ति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह - मूलम् - भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे । बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ॥ ५ ॥ व्याख्या - भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो अष्टमाध्य. यनम् (८) गाथा. ५ ॥ १९७ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy