SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ १२ अहं दुर्गतिं नरकादिकां 'न गच्छेजत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेपि च यदेवमुक्तं तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ॥ १ ॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च प्रत्युगीतेऽस्मिन् ध्रुवके पुनर्भगवानाह - मूलम् — विजहित्तु पुत्रसंजोगं, न सिणेहं कहिंचि कुविज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खु ॥ २ ॥ व्याख्या - विहाय त्यक्त्वा पूर्वसंयोगं, पूर्वपरिचितानां मातापित्रादिखजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न | हमभिष्वङ्गं क्वचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुणः ? इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्ग लोपः, स्नेहकरेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्रात्यादयो दोषप्रदोषास्तैर्मुच्यते यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाहमूलम् - तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सबजीवाणं । सिं व मोक्खणट्टाए, भासई मुणिवरो विगयमोहो ॥ ३ ॥ व्याख्या -- 'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावाकेवलाभ्यां समग्रः समन्वितः किमर्थं भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात् गाथा. २-३
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy