SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनम् (३) उत्तराध्ययन प्रदर्शय ॥ ६४ ॥ इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिका रूप-विपर्ययकरी मुखांत् ॥६५॥ नवयौवनलावण्य-मञ्जलं स्मरजित्वरम् ॥ आविश्चक्रे निजं रूपं, जगजनमनोहरम् ॥६६॥ [ युग्मम् ] ततस्तं दृक्च॥१०३॥ कोरक-चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम-होचैः सा विसिष्मिये ॥ ६७॥ प्रसादो मे महांश्चक्रे. युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यंगमात्मना ॥ ६८ ॥ अथ द्वावपि तौ स्नात्वा, व्यधत्तां सह भोजनम् ॥ देवदूष्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ ६९॥ ततो विदग्धगोष्ठी तौ, क्षणं रहसि चक्रतुः ॥ मूलदेवं तदा देव-दत्तैवमवदन्मुदा ॥ ७० ॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः !॥ ७१ ॥ यतः-"नयहिं को न दीसइ, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ॥ ७२ ॥" किञ्च-"भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः॥७३॥ ये तु मन्दारवद्रूप- वन्तः सारगुणान्विताः॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युभवादृशाः !॥ ७४ ॥" नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मच्चित्ते, तथा स्थेयं | & ममालये ॥ ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ॥ ७६ ॥ सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः !॥ ७७॥ गुणानुरागागणिका, यदि स्यान्निर्धने रता ॥ तदा युपार्जनाभावा-सीदेत्तस्याः कुलं सदा ! ॥ ७८॥ वेश्या स्माह गुण SASSES ॥१०३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy