SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ततः स तस्य भरत-व्याख्यां खैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ॥ ५० ॥ उवाचानुचितं किञ्चि-द्विश्वभूतिस्ततो रुपा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥५१॥ रङ्गाचार्याङ्गनाखेव, त्वमेवं नाटयेः क्रुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ॥ ५२ ॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्धया दृशा ॥ । विश्वभूतेर्विलक्षत्व-मपनेतुमदोऽवदत् ॥ ५३ ॥ भवन्तों नाधुना खस्थाः, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ॥५४॥ जायते नाट्यवेला त-देवदत्ते ! ब्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाद्ययौ ॥ ५५ ॥ देवदत्ताऽथ सम्मान्य, वैणिक विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥५६॥ आहूयतामङ्गमर्दः, कोऽपि सानार्थमावयोः ॥ उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि !॥ ६७ ॥ | देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? ॥ सोवादीद्वेनि नो किन्तु, तज्ज्ञपार्थे स्थितोस्म्यहम् ॥ ५८ ॥ दास्यानीतं गृहीत्वाऽथ, पक्वतैलं स वामनः ॥ प्रारेभेऽभ्यअनं तेन, वशीचक्रे च तन्मनः ॥ ५९॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥६०॥ प्रकृत्येशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ।। ६१ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाजे प्रणम्य च ॥ इत्युवाच गुणेरेव, ज्ञातं ते रूपमद्भुतम् ! ॥ ६२॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यातस्त्वं गुणरेव तादृशैः॥६३॥ तत्ते खाभाविक रूपं, द्रष्टमुत्कण्ठते मनः ॥ त्यक्त्वा मायामिमां कृत्वा, कृपों तन्म उ०१८
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy