SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ जानां. प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्या-गुणाः किन्तु निबन्धनम् ॥ ७९ ॥धनं हि बानिया हिरेव स्पृशन्ति नः ॥ चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः !॥ ८॥ यतः-"सजनानां वचो द्रव्यसहयादतिरिच्यते ॥ स्निग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ॥ ८१॥ खदेशः परदेशश्चा-ऽन्येषां न त कलावताम् ॥ सकलो हि शशीव स्या-पूजनीयो जगत्रये ॥ ८२॥” तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि। सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३॥ ततो मिथोऽनुरक्तौ तौ, तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतः खैर, करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ-माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ८५॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयंस्तां चा-ऽनर्तयद्भूतनायकः ॥ ८६ ॥ वीक्ष्य तं नाटक कान्तं, भूकान्तो विस्मितो भृशम् ॥ याचख वरमित्यूचे, न्यासीचक्रे तया तु सः॥८७॥ गाढप्रेमा ततो मूल-देवे देव इवाप्सराः॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न छूतव्यसनं जहौ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः॥८९॥ कलङ्कस्त्वादृशां द्यूतं, वैरस्थमिव वारिधेः॥ तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ !॥९॥ तयेत्युक्तोऽपि नाऽत्याक्षी-मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि !॥९१॥ तस्यां पुयों सार्थवाहो-ऽचलाहोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ॥९२॥ यद्यत्साऽमार्गयत्तत्त-त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ॥९३॥ तत्राऽऽ
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy