SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ B AASIAS तमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत् , मृषावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उजु भणइ ॥तं तह आलोएज्जा, मायामयविप्पमुक्को उ॥१॥” इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥११॥अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्त्तव्ये इत्याशंका निराकर्तुमाह मूलम् मा गलिअस्सुव कसं, वयणमिच्छे पुणो पुणो। कसंव दटुमाइण्णे, पावगं परिवज्जए ॥ १२॥3 RI व्याख्या-मा निषेधे गल्यश्च इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलपेत् पुनः पुनारं वारं । अयं भावः-यथा गलिरश्वः कशाप्रहारं विना न प्रवर्तते निवर्त्तते वा, नैवं सुशि येणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि'-कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्च 18|इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवजयेत् सर्वप्रकारैस्त्यजेत्, उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः- यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराधैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्तते, माभूदरोवचनायास इति सूत्रार्थः ॥ १२॥ गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाह ISSAUSASAASAASAS
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy