SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमाध्ययनम् ॥ करकण्डच रित्रम्१-७ ॥ अहम् ॥ उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायमभिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभश्चेहापि शक्रादिपूज्यः स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धनायातस्यास्य प्रस्तावनार्थ नमिचरितं ३ तावदिहावश्यं वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येपि करकण्ड्डादयस्त्रयः प्रत्येकबुद्धास्तत्समकालखर्गच्यवनदीक्षोपादा-81 निकेवलज्ञानमहानन्दपदभाजो बभूवुर्यद्वक्ष्यति, “करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, है |गंधारेसु अ नग्गइ ॥ १॥ त्ति” ततः प्रसङ्गात्तचरितान्यपीहोच्यन्ते । तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः ॥ करकण्डमहीजाने-श्वरितं वच्मि तद्यथा ॥ १॥ अत्रैव भरते चम्पा-नगयों गुरुविक्रमः ॥ भूपोभूगुणरत्नाना-मुदधिदेधिवाहनः॥२॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः॥ राज्ञी तस्याभवत्पद्मा-वती पद्मा हरेरिव ॥३॥ भुञ्जाना भूभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त-वनी पत्नी महीपतेः॥४॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता॥ विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५॥ इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः ॥ तस्यापूर्णे च सा काय, कृष्णपक्षेन्दुवधौ ॥६॥ [ युग्मम् ] ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् ॥ जगौ तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥ ७॥ ततो
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy