SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ A गाथा८-९ GATHA ASOSIPAS%** मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज कयाइ सव्वदुक्खाणं । एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥ ८॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणश्चैतत्, ‘अणुजाणेत्ति' अपेलृप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् । कारयन् वा मुच्येत त्यज्येत कदाचित् क्वापि काले 'सबदुक्खाणंति' सुप्व्यत्ययात्सर्वदुःखै; शारीरमानसैः क्लेशैः, ततो हिंसादिनिवृत्ता एव श्रमणा भवं तरन्तीति तत्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आर्यस्तीर्थकरादिभिराख्यातं कथितं, पैरायैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥ ८॥ साधुधर्ममेवाहमूलम्-पाणे अ नाइवाइजा, से समिएत्ति वुच्चइ ताई । तओ से पावयं कम्म, निजाइ उदगं व थलाओ९ व्याख्या-प्राणान्नातिपातयेत् , चकारात्कारणानुमत्योर्निषेधमाह । मृपावादादिपरिहारोपलक्षणश्चैतत् । किमिति || प्राणान्नातिपातयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, त्रायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः? इत्याह, ततः समितात् 'से इति' अथ पापकं अशुभ कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतघढभूप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति १२ उ०३४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy