SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ११० ॥ चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं स्वप्नं, भूयः पश्यामि राज्यदम् ! || २६३ ॥ इति ध्यायन् राज्यलक्ष्मीं, |कांक्षन् सोऽनिशमखपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ! ॥ २६४ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्येत्स्वप्नं तमप्युत्कटभाग्ययोगात् ॥ न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ॥ २६५ ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥ ६ ॥ अथ ' चक्केत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् ॥ नृपस्तत्रेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥ १ ॥ राज्ञस्तस्याऽभवन् बह्वथो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा - मासन् पृथ्वीपतिप्रियाः ॥ २ ॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरसरम् ॥ कलाभ्यासार्थममुच - त्कलाचार्यस्य सन्निधौ ॥ ३ ॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मत्री, दीर्घदर्शीत्य शिक्षयत् ॥ ४ ॥ यदा गर्भसमुत्पत्ति - जयते तव हे सुते ! ॥ तदा दिनादिकं सर्व- मि ज्ञाप्यं त्वया मम ॥ ५ ॥ प्रतिपेदे पितुर्वाणीं, तथाऽमात्यसुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ ६ ॥ बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् ! ॥ भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् ? ॥७॥ अन्यदा तामृतुखातां ददर्श पृथिवीपतिः ॥ वधूः कस्येयमित्यन्याः, पप्रच्छ च निजप्रियाः ॥ ८ ॥ प्रभो ! तवैव पत्नीय - मिति ताभिरुदीरिते । तयैव सह तां रात्रि - मुवासाऽवनिवासवः ॥ ९ ॥ तत्रैव रात्रौ सा गर्भ, बभार नृप - | सङ्गमात् ॥ खातिपाथोमुचः सङ्गा - च्छुक्तिर्मुक्तामणीमिव ॥ १० ॥ गर्भसम्भवकालं तं साऽथ पित्रे न्यवेदयत् ॥ तृतीयमध्ययनम् (३) ॥ ११० ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy