SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 11 2011 खगापत्यान्यभक्षयत् ॥ ६६ ॥ ततस्ते विहगाः स्वीया - पत्यविध्वंसदुःखिताः ॥ कुर्वन्तस्तुमुलं प्रोच्चै - रित्थमाहुर्मुहु- ४२ द्वितीयमध्यमिथः ॥ ६७ ॥ अद्य यावत्सुखं वृक्षे, स्थितमन्त्रानुपद्रवे ॥ अस्मादेव लतायुक्ता - दद्याभूच्छरणाद्भयम् ॥ ६८ ॥ इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च ॥ तस्थुषस्तस्य शावस्या - ऽप्याददे भूषणानि सः ॥ ६९ ॥ यनम् (२) ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥ वीक्ष्य तस्याप्यलङ्कारान् सोऽभूदाच्छेत्तुमुत्सुकः ॥७०॥ निजामाख्यां समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् ॥ अवादीद्वीन्द्रियादीनां चतुर्णां तत्र सम्भवात् ॥ ७१ ॥ " तथा हि नगरे कापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ ७२ ॥ तांश्च मध्यस्थितै| लोकै- रन्नादिक्षयभीरुभिः ॥ निष्काश्यमानान्नगरा - द्विद्विषोऽपीडयन् भृशम् ॥ ७३ ॥ पुरं नः शरणं भावी - त्याशया विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तां स्तदा कोऽपीत्यभाषत ॥ ७४ ॥ भीताः पौराः कर्षयन्ति, युष्मान्निघ्नन्ति च द्विषः ॥ तत्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ ७५ ॥ प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामत्रवीत्कथाम् ॥ ७६ ॥ “ नगरे क्वाप्यभूद्भूपः, स च दुष्टो निजैर्नरैः ॥ स्वीय एव पुरे चौर्य, सर्वदाऽचीकरद्भृशम् ॥ ७७ ॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ॥ ७८ ॥ यत्र राजा खयं चौरो, भण्डकश्च पुरोहितः ॥ यात पौराः ! पुरात्तस्मा - जातं हि शरणाद्भयम् ॥ ७९ ॥ " कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् ॥ नाऽनूचानोऽमुचद्भस्तं जनं दुष्ट इव ग्रहः ! ॥ ८० ॥ तत 11 612 11
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy