SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ * गात्रं मे, जातं शरणतो भयम् ! ॥ ५३॥” इत्युक्त्वाख्यानकं तस्यो-पनयं च प्रकाश्य सः॥ तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ॥ ५४ ॥ । ततोऽप्यऽग्रेऽर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् ॥ लातुं तस्याप्यलङ्कारान् , सूरिरुद्यमवानऽभूत् ॥५५॥ सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् ॥ आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्निजम् ॥ ५६॥ “एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघनः॥ वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ॥ ५७॥ लखनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ॥ ५८ ॥ सोऽवादीयो मरुज्येष्ठा-ऽऽषाढयोः सौख्यदो भवेत् ॥ स एव बाधतेऽहं मे, जातं हि शरणाद्भयम् ! ॥५९॥" आख्यानमित्युदित्वा त-द्भावयित्वा च पूर्व वत् ॥ शिशोः स्थितस्य तथापि, भूषणान्यग्रहीद्गुरुः ॥६०॥ PI भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भूतम् ॥ स वनस्पतिकायाख्यं, पञ्चमं सूरिरेक्षत ॥ ६१ ॥ तस्यापि भूषण गणं, ग्रहीतुं सोद्यमे गुरौ ॥ सोऽपीत्याख्यानमाचख्यौं, खाभिख्याख्यानपूर्वकम् ॥ ६२॥ “द्रुमे पुष्पफलाकीर्णे, क्वापि केऽप्यऽवसन् खगाः॥ वृक्षो वयं नः शरण-मिति विश्रब्धचेतसः ॥ ६३॥ तेषां च वसतां तत्र, निराबाधमथा-15 न्यदा ॥ अपत्यानि बहून्यन्त-नींडं क्रीडन्ति जज्ञिरे ॥६४॥ इतश्च तस्य वृक्षस्य, पार्थात्काऽप्युद्गता लता॥ तं तरं परिवेष्ट्योचै-रारुरोह द्रुमोपरि ॥६५॥ तया च लतयाऽन्येद्यु-विलग्य भुजगो महान् ॥ आरुह्य तं द्रुमं तानि, MORSORAS CASAS * * * * * *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy