SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तृतीय एव प्रहरे, कार्य कार्य समाहितैः॥४॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं | प्रहरसप्तकम् ॥५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले ॥ परेद्यवि पुरं राज-गृहं पुनरुपाययुः॥ ६॥ तदा च | तुहिनव्यूहैः, पीडयन् जगतीजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून् कुर्वन् महीरुहान् ॥ ७॥ तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवन्निशि ॥ निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ ८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् ॥ कृशानुसेविनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥ ९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् ॥ हेमन्तर्नुः प्रववृते, विश्वं हेममयं सृजन् ॥ १०॥ [चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे ॥ आहारार्थ समाजग्मुः, प्रहरेऽहस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथक् पृथग् न्यवत्तेन्त, पुरमध्यामहर्षयः ॥ १२॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ ॥ द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३॥ तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोभवत् ॥ कायोत्सर्ग ततः कृत्वा, ते तत्रैवायतस्थिरे ॥ १४॥ [युग्मम् ] तेष्वद्रिकंदराद्वार-संस्थितस्य तपखिनः ॥ उच्चैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ॥ १५॥ पततुहिनसम्पर्क-शीतलैः शैलमारुतैः ॥ कायश्चकम्प तस्योचै-न किञ्चिदपि मानसम् !॥ १६ ॥ स शीतवेदनां सम्यक्, सहमानो महामुनिः॥ यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत् ॥ ततो रजन्याः| प्रहर, द्वितीये स व्यपद्यत ॥ १८ ॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ॥ शीतमल्पं ततो यामे, स विपन्नस्तृ
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy