SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन चतुर्थमध्ययनम् (४) ॥१४६॥ बुद्ध एव यावजीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं सम्प्रदायः । तथा हि- ___ अत्रैव भरते पुण्य-पीयूषकमलाकरे ॥ पद्माश्रितं पद्ममिवा-ऽभवच्छङ्खपुरं पुरम् ॥१॥ न्यायान्यायक्षी-18 रनीर-विवेचनविचक्षणः ॥ राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्दरः॥२॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक-नेत्राध्वगसुधाप्रपा ॥३॥ यथामनोरथं भोगा-नुपभुआनयोस्तयोः ॥ बभूवागडदत्ताहो, नन्दनः सुन्दराकृतिः ॥ ४ ॥ पित्रोमनोरथैः सार्ध, वर्धमानः क्रमेण सः॥ प्राप तारुण्यमवर्ण-रत्नं सर्वागभूषणम् ॥ ५॥ लोकंपृणस्य तस्योर्वी-दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः॥६॥ स हि हिंसाप्रियोऽलीक-वादी धर्मार्थवर्जितः ॥ रममाणोऽन्यरामाभि-निःशङ्ख गर्वपर्वतः ॥ ७ ॥ मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो-ऽन्वहं तत्राभ्रमत्पुरे ॥ ८॥ [ युग्मम् ] ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥९॥ खामिंस्त्वदीयपुत्रेण, षण्ढवत्खैरचारिणा ॥ उद्वेजिता वयं भूरि-भुजगेनेव मूषकाः!॥१०॥ न च वाच्यं मत्सुतो वः, कथमुद्वेजयेदिति ?॥क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? ॥ ११ ॥ अनाचारा न ये स्वग्ने-ऽप्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्ये-णेवानेन प्रवर्तिताः !॥ १२॥ न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वह्नि-रिवान्यायो ह्युपेक्षितः !॥ १३ ॥ इत्यादिभिर्लोकवाक्य-राकर्ण्य सुतचेष्टितम् ॥ मर्यादाजलधिर्भूपः, कोपाटोपाददोव ॥१४६॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy