SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तिष्ठिपत् ॥ ३४ ॥ तया दास्येति चाणक्यो ऽधिक्षिप्तः प्रज्वलन् क्रुधा ॥ समक्षं सर्वलोकाना -ममुं चक्रे प्रतिश्रवम् ॥३५॥ "कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ! ॥ ३६ ॥ प्रतिश्रुत्येति चाणक्यो, निरगान्नगराद्वहिः ॥ अनेन भिक्षुणा किं स्या - दिति राज्ञाप्युपेक्षितः ! ॥ ३७ ॥ पित्रा प्रोक्तं स्मरन् बिम्बा - न्तरितं राज्यमात्मनः ॥ बिम्बभूतं नरं सोऽथ प्रातुकामोऽभ्रमद्भुवि ॥ ३८ ॥ मयूरपोषकग्रामं, सोथागान्नन्दभूपतेः ॥ परित्राजकवेषेण, भिक्षार्थं तत्र चाऽभ्रमत् ॥ ३९ ॥ तत्रासीद्वामणीपुत्र्याः, शशभृत्पानदोहदः ॥ तं च पूरयितुं कोऽपि नाशकन्मतिमन्तरा ॥ ४० ॥ तस्याऽपूत्तौ च सा बाला, लतेव तनुतां दधौ ॥ स्त्रीणां हि दोहदापूर्ति - व्याधिमरणं स्मृतम् ! ॥ ४१ ॥ तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः ॥ इत्यपृच्छंश्चन्द्रपान - दोहदः पूर्यते कथम् १ ॥ ४२ ॥ चाणक्योऽथ जगादैवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ॥ ४३ ॥ अपूर्णदोहदा गर्भा - न्विता मा म्रियतामियम् ॥ तैर्विमृश्येति चाणक्य - वचनं प्रतिपेदिरे ॥ ४४ ॥ सच्छिद्रमथ चाणक्यो - ऽचीकरत्पटमण्डपम् ॥ तस्योर्द्धञ्चाऽमुचच्छन्नं नरं छिद्रपिधायकम् ॥ ४५ ॥ छिद्रस्य तस्य चाऽधस्ता - न्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्त्तिकीचन्द्र - स्तत्र प्रतिमितिं दधौ ॥ ४६ ॥ प्रति| विम्बं च तच्चान्द्र-मन्तर्वत्याः प्रदर्श्य सः ॥ पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ ४७ ॥ चन्द्रपानधिया | स्थाल - पयः साऽपाद्यथायथा ॥ पिदधे मण्डपछिद्र - मुपरिस्थस्तथा तथा ॥ ४८ ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां ++++6+6+%
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy