SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ गदास्तस्य विलीयंते, वातोद्भूता इवांबुदाः ॥ ११॥ तन्निशम्याभ्यधाद्भूमा-नस्माकममुनाप्यलम् ॥ तृतीयोऽथावद द्राज-नस्ति भूतं ममापि हि ॥ १२॥ कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रियाप्रियकृतोर्हन्ति, दृष्टमेवा Aऽमयांस्तथा॥ १३॥ ततो राज्ञा प्रदत्ताज्ञः, स मांत्रिकशिरोमणिः॥ अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे॥१४॥ ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ॥ अपूजि वस्त्रभूषायै-लोकैश्च सकलैरपि ॥ १५॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनि सुजनस्तु नौति ॥ सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ॥ १६ ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः ॥ १४ ॥ ननु कोपाद्यसत्यकरणादिना कि-3 मात्मन एव दमनमुपदिश्यते ? न परस्येत्यत्रोच्यते मूलम्-अप्पा चेव दमेअबो, अप्पा हु खलु दुइमो॥अप्पा दंतो सुही होइ, आस्सिं लोए परत्थ य ॥१५॥ BI व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैव मुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माहुईमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः ।। किं पुनरात्मदमने फलमित्याह-आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसंप्रदायः, तथाहि
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy