SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ॥१३॥ गत्वा विदेहे सङ्घोक्त-युक्त्याऽप्राक्षीजगत्प्रभुम् ॥ २॥ शशंस शम्भुशकोऽथ, सङ्घोऽसौ वक्ति सूनृतम् ॥ माहिल- स्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः॥३॥ तदाकयोऽऽगता देवी, सङ्घमेवमवोचत ॥ कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः॥४॥ सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः ॥ तयेत्युक्तेऽबदद्गोष्ठा-माहिलोऽतिकदाग्रही ! ४॥ ५ असौ वराकी खल्पी -स्तत्र गन्तुं कं शक्नुयात् ? ॥ तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ॥६॥ ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे ॥ सम्यक श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे !॥७॥ तथापि तत्तन्ममातमत्यजन्तं, चकार सोऽखिलसङ्घबाह्यं ॥ व्युद्धाहयन् सोऽपि जनाननेकान् , बभ्राम भूमौ गतबोधिरत्नः ! ॥१०८॥ इति सप्तमनिह्नवकथा ॥७॥ "इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निह्नवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥१॥""अथ भूरिविसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽन्द-शतैः पडिनवोत्तरैः ॥२॥" "तथाहि"-रथवीरपुराभिख्ये, पुरेऽभूद्दीपकाभिधम् ॥ वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ॥३॥ इतश्च शिवभूत्याख्यः, क्षत्रियः 3 सात्विकाग्रणीः ॥ सहस्रयोधी तत्रत्यं, नृपं सेवितुमाश्रयत् ॥४॥ नृपो दध्यौ परीक्षेऽह-मस्य धैर्यादिकान् गुणान् ॥ निर्गुणो ह्यनुजीवी स्या-त्खामिनो नो सुखाकरः॥५॥ परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं, स्याद्भस्मनि हुतोपमम् ! ॥६॥ ध्यात्वेति भूपतिः श्याम-चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणी च, ॥१३१॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy