SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३०६ ॥ १५ १८ २१ २४ मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिलमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥ १८ ॥ व्याख्या--यथैव चकारस्यैवकारार्थत्वात् अग्निः 'अरणित्ति' अरणितोऽग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूच्र्च्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्वाः 'संमुच्छइत्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवोत्पद्यन्ते । तथा 'नासइति' नश्यन्ति, अभ्रपटलवद्विलयमुपयान्ति । 'नावचिट्ठेत्ति' न पुनरवतिष्ठन्ते, शरीरनाशे सति तन्नाशादिति सूत्रार्थः ॥ १८ ॥ कुमारावाहतुः मूलम् -नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निचो । अज्झत्थरं निअओस्स बंधो, संसारहेडं च वयंति बंधं ॥ १९ ॥ ध्याख्या -नो इंद्रियग्राह्यः सत्व इति प्रक्रमः, अमूर्त्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । तथा अमूर्त्तभावादपि च भवति नित्यस्तथा हि-यद्रव्यत्वे सत्यमूर्त्त तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं १ यतः 'अज्झत्थ हेउति' इहाध्यात्मशब्देनात्मस्थाः मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितोऽस्य जन्तो-बन्धः कर्मभिः संश्लेषः, यथाऽमूर्त्तस्यापि नभसो मूर्त्तेरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तेरपि कर्मभिर्न विरुध्यते । चतुर्दशमध्ययनम् (१४) गा१८-१९ ॥ ३०६ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy