SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन हा द्वितीयमध्यद्विजेन हत्यमानोऽपि, यन्नाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ॥९॥ ततस्त्वां वादये जा यनम् (२) नाहं. वाडयात्रप्रीतिकारिणीम् ॥ तच्छुत्वेत्यभ्यधाद्देवी, स्मितविच्छुरिताधरा ॥१०॥ [युग्मम् ] युवयोरभवद्युद्धं. यदान्योन्यविलमयोः ॥ तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ॥ ११॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा ॥ कः साधुः ? को द्विजश्चेति, नाज्ञासिपमहं तदा !॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् ॥ श्रुत्वेति क्षपकः शान्त-कोपाटोपोऽब्रवीदिति ॥ १३॥ सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम ॥ तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे!॥ १४ ॥ ततो यति तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी ॥ कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इतिक्षपककथा ॥ | उक्तमेवार्थ निगमयितुमाह-तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न संज्वलेदिति सूत्रार्थः ॥ २४ ॥ कृत्योपदेशमाहमूलम्-सोच्चाणं फरुसा भासा, दारुणा गामकंटया।तुसिणीओ उवेहेजा, न ताओ मणसी करे ॥२५॥ व्याख्या-श्रुत्वा ‘णमिति' वाक्यालंकारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओत्ति' तूष्णींशीलोन कोपात्परु
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy