SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाहमूलम्-अक्कोसिज परो भिक्खु, न तेसिंपडिसंजले।सरिसो होई बालाणं, तमा भिक्खू न संजले॥२४॥ । व्याख्या-आक्रोशेतिरस्कुर्यात् परोऽन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न 'तेसिंति' सुपो वचनस्य च व्यत्तयात्तस्मै प्रति संज्वलेत्, प्रत्याक्रोशदानादिना वह्निवदीप्येत । चिन्तयेच्चैवं-"आक्रुष्टेन मतिमता, तत्वार्थालोचने मतिः कार्या ॥ यदि सत्यं कः कोपः १, स्यादनृतं किं नु कोपेन ? ॥१॥" किमेवमुपदिश्यत इत्याह-प्रतिसंज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ॥ तथा हि काप्यभूत्कश्चि-दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ॥१॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥२॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः॥ जातकोपः समं तेन, योद्धं प्रववृतेतराम् ॥३॥ क्षत्क्षामदेहः क्षपक-स्ततस्तेन द्विजन्मना ॥ हत्वा मुष्ट्यादिभिः पृथ्व्या-मपात्यत तरखिना ॥ ४ ॥ मुहुर्मुहुस्ताडयित्वा, द्विजेन मुमुचेऽथ सः॥ ततः खस्थानमगम-त्क्षपकोऽपि कथञ्चन ॥ ५॥ तत्पाद्येऽथ विभावाँ, विभाभिर्भासुरा सुरी ॥ समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ॥ ६॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः॥ अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ॥७॥ त्वं न जल्पयसि खामि-नपराधात्कुतोऽद्य मां? ॥ ततो वाचंयमोप्युच्चैः, प्रत्युवाचेति निर्जरीम्॥८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy