SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्य| यनम् (४) SHREE उत्तराध्ययन | व्याख्या- संसरणं तेषु तेषूचावचकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अठ्ठ- त्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जंचत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच साधारणं वा यदात्मनोन्ये॥१४३॥ पाञ्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः |'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः खजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उवितित्ति' उप यान्ति, तेन खजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं। उक्तञ्चRT "रोगाघातो दुःखार्दितस्तथा स्वजनपरिवृतो जीवः ॥ क्वणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ॥१॥ माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न नन्ति ते यदि रुज, खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाच न रक्षन्ति, खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात्खजनस्यार्थे, यदिहाकार्य करोषि निर्लज ! ॥ भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥४॥ तस्मात्खजनस्योपरि, विहाय रागं च निर्वृतो भूत्वा ॥ धर्म कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् !॥ ५॥" अत्रोदाहरणमाभीरीवञ्चकवणिजस्तत्र चायं सम्प्रदायःतथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चक्रे, व्यापार प्रतिवासरम् ॥ १ ॥ अन्यदा सर ALESSAISISSEASTUST ॥१४३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy