SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ करकण्डुचरित्रम् २२-३६ कस्य ब्रवीमि वा? ॥ २२ ॥ इत्यादि विलपन् दुःख-भरभङ्गुरमानसः॥ दन्तिपादानुसारेण, ययौ चम्पापुरी नृपः ॥ २३॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुपाटवीम् ॥ पिपासाविवशस्तत्रा-विशञ्चैकं महासरः ॥ २४ ॥ वाद्धौं सुरेभवत्तत्र, क्रीडति द्विरदे शनैः ॥ उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ॥ २५॥ सरस्ती च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोपश्य-दरण्यानी भयप्रदाम् ॥ २६ ॥ यूथच्यूतकुरङ्गीव, ततः सांत्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोच्चै-रोदयन्ती खगानपि ॥ २७ ॥ कथञ्चिद्धैर्यमालम्ब्य, दध्यौ चैवं नृपाङ्गना ॥ दुष्कर्मदोपतो ह्याप-दियमापतिता मम ॥ २८ ॥ न चातिचिक्कणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीरै-स्तदलं, रोदनेन मे ! ॥२९॥ किञ्चास्मिन् गहने व्याघ्र-सिंहादिश्वापदाकुले ॥ उपद्रवोपि कोपि स्यात् , तत् प्रमादं जहा म्यहम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः-शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्त्वान् , निन्दित्वा दुरितं ४ानिजम् ॥ ३१॥ साकारानशनं कृत्वा-ऽरण्यनिस्तरणावधि ॥ स्मरन्ती प्रकटं पञ्च-परमेष्ठिनमस्क्रियाः॥ ३२॥ अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ॥ गन्तुं प्रववृते काञ्चि-द्दिशमुद्दिश्य सत्वरम् ॥ ३३॥[त्रिभिर्विशेषकम् ] दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादनां| ताच, पप्रच्छेति स तापसः॥ मातः! कुत इहायासी-स्त्वं देवीव मनोरमा ॥ ३५ ॥ अहं चेटकराट्रपुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति, खवृत्तं साप्यवोचत ॥ ३६ ॥ अहं चेटकभूभर्तुर्बान्धवोस्मि महाशये ! CSCR554
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy