SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ४१ ॥ |र्मिता ॥ लोकास्तु तमल्पंत - मजल्पन्मूकनामकम् ॥ ४७ ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा ॥ चतुर्ज्ञानधरास्तत्र, स्थविरा: समवासरन् ॥ ४८ ॥ तैश्च मूकगृहे श्रेष्ठौ श्रमणी प्रहितावुभौ ॥ तच्छिक्षितामिमां गाथां, पुरो मूकस्य पेठतुः ॥ ४९ ॥ “ तावस ! किमिणा ? मूअ - एण पडिवज़ जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोत्ति ॥ ५० ॥ श्रुत्वेति विस्मितो मूक- स्तौ प्रणम्येति पृष्टवान् । एतद्युवां कथं वित्थ - स्ततस्तावित्यवोचताम् ॥५१॥ | इहोद्याने स्थिता अस्म-गुरवो हि विदन्त्यदः ॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमगुरून् ॥ ५२ ॥ श्रुत्वा तद्देशनां पाप - पंकप्लावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ ५३ ॥ इतश्च जातिमदकृ-त्पुरोहितसुतोमरः ॥ महाविदेहे सर्वज्ञ - मित्यपृच्छत्कृताञ्जलिः ॥ ५४ ॥ अहं किमस्मि ? सुप्राप - बोधिस्तदितरोऽथ वा ॥ जिनो जगाद देव ! त्वमसि दुर्लभवोधिकः ॥ ५५ ॥ सुरोऽपृच्छत्पुनः सार्व, कोत्पत्येऽहमितश्युतः ॥ जिनो जगौ त्वं कौशाम्ब्यां, मूकभ्राता भविष्यसि ॥ ५६ ॥ धर्मावातिश्च ते मूका-द्भाविनीति निशम्य सः ॥ जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ ५७ ॥ दत्त्वा तस्मै बहुद्रव्यं तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे स्वर्गात्परिच्युतः ॥ ५८ ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो- रोपितोऽस्ति मया गिरौ ॥५९ ॥ आम्राणि याचते सा च यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या - स्त्वमेतानि लिखेस्तदा ॥ ६० ॥ गर्भस्थमङ्गजमिमं मातर्मह्यं ददासि चेत् ॥ ददे तदानीमानीय, सहकारफला ॥ ६१ ॥ इदं तस्यां प्रपन्नायां समानीय ततो द्वितीयमध्ययनम् (२) "स्ये" ॥ ४१ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy