SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४/किम्पुनः साधुबाधकः! ॥ ३३ ॥ अथाऽभ्यधान्नपो प्रात-मन्तुमेनं क्षमख मे॥ अनुकम्पख चेदानी, तौ बालौ दुर्दशा तगतौ ॥ ३४ ॥ मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् ॥ तदा तौ सजयामि द्राकू, कुमारौ नान्यथा पुनः ॥ ३५॥ पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं खीचक्रतुस्तदा ॥ ३६ ॥ ततः स 2 युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः ॥ पश्चात्ती सजयामास, दीक्षयामास च द्रुतम् ॥ ३७॥ तत्र पृथ्वीपतेः पुत्रो,8 निश्शङ्कोऽपालयद्वतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः॥ ३८ ॥ प्रद्वेषादिति दध्यौ च, सदीक्षां पालयन्नपि ॥ अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ॥ ३९ ॥ ततो दुर्लभवोधित्वं, पुरोधः सूनुरार्जयत् ॥ क्रमावावपि तौ कालं, कृत्वा देवौ बभूवतुः ॥ ४० ॥ इतश्च पुर्यां कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः ॥ स मृत्वा खगृहे जज्ञे, लोभा-15 वेशेन शूकरः॥४१॥ स खसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः॥ निजन्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ॥४२॥ ततो रंसावशावेणी- कल्पः खगृह एव सः ॥ भुजगोऽजनि जातिं च, सस्मार प्राग्वदात्मनः ॥ ४३ ॥ भ्रमन्नयं गृहान्तों, मावधीदिति चिन्तिभिः॥ सुतैरेव हतः सोऽहिः, स्वसूनोस्तनयोऽभवत् ॥४४॥ प्राग्वजातिस्मृति प्राप्तो, मूकत्वं खीचकार सः॥ नुषामम्बां सुत तातं, कथं ? वच्मीति चिन्तयन् ॥ ४५ ॥ उपायैः प्रचुरैर्माता| पितृभ्यां विहितैरपि ॥ मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ ४६ ॥ अशोकदत्त इत्यासी-त्तस्याह्वा तातनि १ रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy